परमानंद तंत्र | Paramananda Tantra PDF In Sanskrit

परमानंद तंत्र – Paramananda Tantra Book/Pustak PDF Free Download

पुस्तक का एक मशीनी अंश

इह खलु जनानामनवरतजनन मरणप्रवाहपतितानां तद्दुः खसिन्धुसमुत्त रणमेव पुरुषार्थ: । तदुपाया परमकारुणिकेन परमशिवेन श्रुतिस्मृतिपुराणागम रधिकारिभेदाद बहुधोपपादितः ।

तत्र ज्ञानमुपासना कर्म चेति त्रयमेव निरूपितं सर्वत्र श्रुत्यादावागमे च। तत्र कर्मणा चित्तशुद्धि संपाद्योपासनया चित्तकाग्रपं सम्पाद्य ज्ञानेनाज्ञाननिवृत्तौ स्वात्मपुरुषार्थलाभः ।

तत्र कर्मादिविधायकं स्वस्वाधिकारिण प्रति यथा श्रुत्यादिकं प्रमाणम्, तथैवागमापरनामधेयं तन्त्रमपि । अत एव- “अष्टादश पुराणानां कर्ता सत्यवतीसुतः ।

कामिकादिप्रभेदानां यथा देवो महेश्वरः ॥” इति सुतसंहितायां पुराणप्रामाण्योपमानत्वेन तन्त्रप्रामाण्यमुक्तम् । यथाहि महेश्वरोक्तत्वात् कामिकादितन्त्राणां प्रामाण्यमेव नारायणांश भूतव्यासोक्तत्वात् पुराणं प्रमाणमित्यर्थ स्तद्व्याख्यायां श्रीविद्यारण्यस्वामिभिर्वर्णितः ।

पुराणेषु तन्त्रनिन्दा तन्त्रेषु वेदादि निन्दा तु नहिनिन्दान्यायेन स्तुत्यस्तोत्रार्या ऐहिककफलकनिषिद्धकर्मविधायक तन्त्रं तु श्येनयागविधिवेदवाक्यवदनिष्टप्रयोजकमेव ।

एतच्चाग्रे मूले एव स्पष्टी भविष्यति। तस्मात् सर्वथा तन्त्राणामप्रामाण्य निरूपणमपास्तम्। अप्रामाण्यकथनं पुराणादिषु तन्त्रविशेषपरत्वेन तन्त्रेक देशपरत्वेन स्तुत्यर्थत्वेन वा योजनीयम् ।

अत एव श्रीमच्छङ्करभगवत्पादप्रमुखानां प्रपन्चसारादिकृतिरनवद्या। तथा च प्रकृतं परमानन्दतन्त्रं द्धकर्मोपासनज्ञानप्रकाशकत्वेन प्रमाणभूतं व्याख्यातुमुचितमेवेति मम यत्नोऽतिसुफल एव।

विस्तरेण तन्त्रप्रामाण्यव्यवस्थापनं तु क्षेमानन्दकृतपद्धति टिप्पणादो द्रष्टव्यम् । विस्तरभयान्नेह वितानितम् । इह सर्वाणि तन्त्राणि देवीशिवादिसंवादरूपाणि दृश्यन्ते तत्र तन्त्रार्थः श्लोक रूपेण वाक्यरूपेण वा शिवेन देवीं प्रत्युक्तः ।

देव्युवाचेत्यादिप्रश्नोत्तरादिश्लोकात्मना रचनं तु तत्परम्परायां केनचित् साधकेन कृतमिति ज्ञेयम् । एवमेव सर्वतन्त्राणां श्लोकादि रूपत्वं श्रीमृगेन्द्रवृत्तौ श्रीनारायणकष्ठपानिरूपितम् ।

तत्रादावखिल विघ्ननिरसनद्वारा ग्रन्थसमान्त्यर्थ शिवप्रणत्यात्मकं मङ्गलमाचरति अनादीति । तम् अनादीत्यादिना वर्णनीयम्। शिवं मङ्गलात्मकम् ।

अहं ग्रन्थचिकीर्षुः 13 प्रणमामि प्रकर्षेण कायवाङ्मनसां तदेकप्रवणतां करोमि। कं तम् ? यदन्तर्भाति तत्त्वानां चक्रम् यस्थान्तः शरीरे तत्त्वानां शिवादिक्षित्यन्तानां चक्रं समुदायः भाति प्रकाशते ।

सर्व जगद्विज्ञानात्मनि शिवे एव भासते। अत एव “नहि ज्ञानाहते भावाः केनचिद्विषयी कृताः” इत्युक्तम् । पुनः कथंभूतं तम् ? अनादि आदिरहितम् अनुस्वारलोप आर्षः ।

अथवानन्तपदेन कर्मधारयः । अनन्तम् अन्तरहितम् । आनन्दं सुखरूपम् । अप्रतिष्ठम् अनाश्रितम् । परं तत्त्वातीतम्। शिवादिक्षित्यन्ततत्त्वानामधिष्ठानत्वेन भासकत्वात्त स्वातीतः, अनाश्रितत्र “तत्त्वातीतः परः शिवः ।

आश्रयः सर्वतत्त्वानामस्य नास्त्यन्य दाश्रयम्” इत्युक्तेः । सर्वाधिष्ठानत्वेन सर्वात्मकत्वाद् द्वितीयाभावेन दुःखराहित्यात् सुख रूपः, “हपं. संभृतभेदमुक्तिसुखभूर्भारावतारोपमः” इत्युक्तेः

जन्मनाशाभावादाद्यन्त रहितः सर्वजगज्जन्मनाशसाक्षित्वेनासाक्षिकयोस्त ज्जन्मनाशयोरनङ्गीकारात्, “सर्व प्रकाशस्थो त्तिस्तं वा केन भासताम्” इत्युक्तेः।

प्रणमामीत्यत्र कायस्य तत्प्रवणत्वं तत्कर्मानुष्ठानम्, वाचस्तत्प्रवणत्वं हृल्लेखाद्युच्चारादिरूपमुपासनम्, मनसस्तत्प्रवणत्वं विषयवासनात्यागपूर्वकं शिवतत्त्वविमर्शनं ज्ञानम् ।

तेनात्र कर्मोपासनाज्ञानानां विषयत्वं सूचितम् ईदृशप्रणतीच्छावानधिकारी च सूचितः । शिवमित्यनेन फलं सूचितम् ।

अनादीत्यादिविशेषणैः फलस्यापरिछिन्नत्वेन फलस्यापरिछिन्नत्वेन परमपुरुषार्थत्वं सूचितम् सम्बन्धश्च प्रतिपाद्यप्रतिपादकभावः स्फुट एव इत्यनुबन्धचतुष्टघसंगतिः ॥ १ ॥

लेखक Maheshwaranand Nath
भाषा हिन्दी, संस्कृत
कुल पृष्ठ 733
PDF साइज़312.4 MB
CategoryReligious

परमानंद तंत्र – Paramananda Tantra Book/Pustak PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *