‘श्री लक्ष्मी सहस्रनाम स्तोत्रम्’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Sri Lakshmi Sahasranama Stotram’ using the download button.
लक्ष्मी सहस्रनाम स्तोत्रम् – Lakshmi Sahasranamam Lyrics PDF Free Download

श्री लक्ष्मी सहस्रनाम स्तोत्र
श्रीस्कन्दपुराणे सनत्कुमारसंहितायाम् ।
श्रीगणेशाय नमः ।
हरिः ॐ ।
नाम्नां साष्टसहस्रञ्च ब्रूहि गार्ग्य महामते ।
महालक्ष्म्या महादेव्या भुक्तिमुक्त्यर्थसिद्धये ॥ १॥
गार्ग्य उवाच-
सनत्कुमारमासीनं द्वादशादित्यसन्निभम् ।
अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये ॥ २॥
सर्वलौकिककर्मभ्यो विमुक्तानां हिताय वै ।
भुक्तिमुक्तिप्रदं जप्यमनुब्रूही दयानिधे ॥ ३॥
सनत्कुमार भगवन्सर्वज्ञोऽसि विशेषतः ।
आस्तिक्यसिद्धये नॄणां क्षिप्रधर्मार्थसाधनम् ॥ ४॥
खिद्यन्ति मानवास्सर्वे धनाभावेन केवलम् ।
सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः ॥ ५॥
दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता ।
केन वा ब्रह्मविद्याऽपि केन मृत्युविनाशिनी ॥ ६॥
सर्वासां सारभूतैका विद्यानां केन कीर्तिता ।
प्रत्यक्षसिद्धिदा ब्रह्मन् तामाचक्ष्व दयानिधे ॥ ७॥
सनत्कुमार उवाच-
साधु पृष्टं महाभागास्सर्वलोकहितैषिणः ।
महतामेष धर्मश्च नान्येषामिति मे मतिः ॥ ८॥
ब्रह्मविष्णुमहादेवमहेन्द्रादिमहात्मभिः ।
सम्प्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकम् ॥ ९॥
यस्योच्चारणमात्रेण दारिद्र्यान्मुच्यते नरः ।
किं पुनस्तज्जपाज्जापी सर्वेष्टार्थानवाप्नुयात् ॥ १०॥
अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य
आनन्दकर्दमचिक्लीतेन्दिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छन्दः ।
विष्णुमाया शक्तिः महालक्ष्मीः परादेवता ।
श्रीमहालक्ष्मीप्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः ।
श्रीमित्यादि षडङ्गन्यासः ।
ध्यानम्-
पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीम् ।
पद्मवक्त्रां पद्महस्तां वन्दे पद्मामहर्निशम् ॥ १॥
पूर्णेन्दुवदनां दिव्यरत्नाभरणभूषिताम् ।
वरदाभयहस्ताढ्यां ध्यायेच्चन्द्रसहोदरीम् ॥ २॥
इच्छारूपां भगवतस्सच्चिदानन्दरूपिणीम् ।
सर्वज्ञां सर्वजननीं विष्णुवक्षस्स्थलालयाम् ॥ ३॥
दयालुमनिशं ध्यायेत्सुखसिद्धिस्वरूपिणीम् ।
यथोपदेशं जपित्वा, यथाक्रमं देव्यै समर्प्य,
ततश्शाम्भवीमुद्रया लक्ष्मीमनुसन्धाय, नामसहस्रं जपेत् ।
हरिः ॐ ॥
नित्यागतानन्तनित्या नन्दिनी जनरञ्जनी ।
नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी ॥ १॥
महालक्ष्मीर्महाकाली महाकन्या सरस्वती ।
भोगवैभवसन्धात्री भक्तानुग्रहकारिणी ॥ २॥
ईशावास्या महामाया महादेवी महेश्वरी ।
हृल्लेखा परमा शक्तिर्मातृकाबीजरूपिणी ॥ ३॥
नित्यानन्दा नित्यबोधा नादिनी जनमोदिनी ।
सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी ॥ ४॥
त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा ।
वाग्देवी च महारात्रिः कालरात्रिस्त्रिलोचना ॥ ५॥
भद्रकाली कराली च महाकाली तिलोत्तमा ।
काली करालवक्त्रान्ता कामाक्षी कामदा शुभा ॥ ६॥
चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी ।
त्रैलोक्यजयिनी देवी त्रैलोक्यविजयोत्तमा ॥ ७॥
सिद्धलक्ष्मीः क्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी ।
उमा भगवती दुर्गा चान्द्री दाक्षायणी शिवा ॥ ८॥
प्रत्यङ्गिरा धरावेला लोकमाता हरिप्रिया ।
पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी ॥ ९॥
अरूपा बहुरूपा च विरूपा विश्वरूपिणी ।
पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा ॥ १०॥
काली मा पञ्चिका वाग्मी हविःप्रत्यधिदेवता ।
देवमाता सुरेशाना देवगर्भाऽम्बिका धृतिः ॥ ११॥
सङ्ख्या जातिः क्रियाशक्तिः प्रकृतिर्मोहिनी मही ।
यज्ञविद्या महाविद्या गुह्यविद्या विभावरी ॥ १२॥ var विभावती
ज्योतिष्मती महामाता सर्वमन्त्रफलप्रदा ।
दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी ॥ १३॥
सहस्रादित्यसङ्काशा चन्द्रिका चन्द्ररूपिणी ।
गायत्री सोमसम्भूतिस्सावित्री प्रणवात्मिका ॥ १४॥
शाङ्करी वैष्णवी ब्राह्मी सर्वदेवनमस्कृता ।
सेव्यदुर्गा कुबेराक्षी करवीरनिवासिनी ॥ १५॥
जया च विजया चैव जयन्ती चाऽपराजिता ।
कुब्जिका कालिका शास्त्री वीणापुस्तकधारिणी ॥ १६॥
सर्वज्ञशक्तिश्श्रीशक्तिर्ब्रह्मविष्णुशिवात्मिका ।
इडापिङ्गलिकामध्यमृणालीतन्तुरूपिणी ॥ १७॥
यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी ।
अष्टाङ्गयोगिनी देवी निर्बीजध्यानगोचरा ॥ १८॥
सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी ।
वेदशास्त्रप्रमा देवी षडङ्गादिपदक्रमा ॥ १९॥
शिवा धात्री शुभानन्दा यज्ञकर्मस्वरूपिणी ।
व्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी ॥ २०॥
एकाक्षरपरा तारा भवबन्धविनाशिनी ।
विश्वम्भरा धराधारा निराधाराऽधिकस्वरा ॥ २१॥
Author | – |
Language | Sanskrit |
No. of Pages | 25 |
PDF Size | 2 MB |
Category | Stotram |
Source/Credits | yousigma.com |
Related PDFs
लक्ष्मी सहस्रनाम स्तोत्रम् – Lakshmi Sahasranamam Lyrics PDF Free Download