‘चाणक्य नीति मराठी पुस्तक’ PDF Quick download link is given at the bottom of this article. You can see the PDF demo, size of the PDF, page numbers, and direct download Free PDF of ‘Chanakya Niti’ using the download button.
चाणक्य नीति मराठी पुस्तक – Chanakya Niti Marathi Book PDF Free Download

चाणक्य नीति – Chanakya Niti Marathi
॥ चाणक्यनीति ॥
प्रणम्य शिरसा विष्णुं त्रैलोक्धाधिपतिं प्रभुम् । नानाशास्त्रोद्धृतं वक्ष्ये राजनीतिसमुच्चयम् ॥ ०१-०१
अधीत्येदं यथाशास्त्रं नरो जानाति सत्तमः । धर्मोपदेशविख्यातं कार्याकार्य शुभाशुभम् ॥ ०१-०२
तदहं सम्प्रवक्ष्यामि लोकानां हितकाम्यया । येन विज्ञातमात्रेण सर्वज्ञाअत्वं प्रपद्यते ॥ ०१.०३
मूर्खशिष्योपदेशेन दुष्टखीभरणेन च। दुःखितैः सम्प्रयोगेण पण्डितोऽप्यवसीदति ॥ ०१-०४
दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससपेंच गृहे वासो मृत्युरेव न संशयः ॥ ०१-०५
आपदर्थे धनं रक्षेद्दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ०१.०६
आपदर्थे धनं रक्षेच्छ्रीमतां कृत आपदः । कदाचिचलते लक्ष्मीः सचितोऽपि विनश्यति ॥ ०१-०७
यस्मिन्देशे न सम्मानो न वृत्तिनं च बान्धवाः । नच विद्यागमोऽप्यस्ति वासं तत्र न कारयेत् ॥ ०१-०८
धनिकः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पद्म यत्र न विद्यन्ते न तत्र दिवस वसेत् ॥ ०१-०९
लोकयात्रा भयं लज्जा दाक्षिण्यं त्यागशीलता । पद्म यत्र न विद्यन्ते न कुर्यात्तत्र संस्थितिम् ॥ ०१-१०
जानीयात्प्रेषणे भृत्यान्बान्धवान् व्यसनागमे । मित्र चापत्तिकालेषु भार्या च विभवक्षये ॥ ०१-११
आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥ ०१-१२
यो ध्रुवाणि परित्यज्य अध्रुवं परिषेवते । ध्रुवाणि तस्य नश्यन्ति चाधुवं नष्टमेव हि ॥ ०१-१३
वरयेत्कुलजां प्राज्ञो विरूपामपि कन्यकाम् । रूपशीलां न नीचस्य विवाहः सदृशे कुले ॥ ०१-१४
नदीनां शस्त्रपाणीनांनखीनां शृङ्गिणां तथा । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ ०१-१५
विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । अमित्रादपि सद्वृत्तं बालादपि सुभाषितम् ॥ ०१-१६
स्त्रीणां द्विगुण आहारो लज्जा चापि चतुर्गुणा । साहसं पशु चैव कामचारगुणः स्मृतः ॥ ०१-१०
अनृतं साहसं माया मूर्खत्वमतिलोभिता । अशौचत्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः ॥ ०२-०१
भोज्यं भोजनशक्तिश्च रतिशक्तिर्वराङ्गना । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ ०२-०२
यस्य पुत्रो वशीभूतो भार्या छन्दानुगामिनी । विभवे यश्च सन्तुष्टस्तस्य स्वर्ग इहैव हि ॥ ०२-०३
ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥ ०२-०४
परोक्षे कार्यहन्तारं प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥ ०२-०५
न विश्वसेत्कुमित्रे च मित्रे चापि न विश्वसेत् । कदाचित्कुपितं मित्रं सर्व गुह्यं प्रकाशयेत् ॥ ०२-०६
मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत् । मन्त्रेण रक्षये कार्ये चापि नियोजयेत् ॥ ०२-०७
कष्टं च खलु मूर्खत्वं कष्टं च खलु यौवनम् । कष्टात्कष्टतरं चैव परगेहनिवासनम् ॥ ०२-०८
शैले शैले च माणिक्यं मौक्तिकं न गजे गजे । साधवो न हि सर्वत्र चन्दनं न बने बने ॥ ०२-०९
पुत्राश्च विविधैः शीलर्नियोज्याः सततं बुधैः । नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः ॥ ०२-१०
माता शत्रुः पिता वैरी याभ्यां वाला न पाठिताः । सभामध्ये न शोभन्ते हंसमध्ये बको यथा ॥ ०२-११
लालनाद्वहवी दोषास्ताडने बहवो गुणाः । तस्मात्पुत्रं च शिष्यं च ताडयेन तु लालयेत् ॥ ०२-१२
लोकेन वा तदर्धेन तदर्धाक्षरेण वा । अबन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मभिः ॥ ०२-१३
कान्तावियोगः स्वजनापमानं ऋणस्य शेषं कुनृपस्य सेवा । दारिद्र्यभावाद्विमुखं च मित्र विनाग्निना पद्म दहन्ति कायम् ॥ ०२-१४
नदीतीरे च ये वृक्षाः परगेहेषु कामिनी । मन्त्रहीनाश्च राजानः शीघ्रं नश्यन्त्यसंशयम् ॥ ०२-१५
बलं विद्या च विप्राणां राज्ञां सैन्यं बलं तथा । बलं वित्तं च वैश्यानां शूद्राणां पारिचयकम् ॥ ०२-१६
निर्धनं पुरुषं वेश्या प्रजा भग्नं नृपं त्यजेत् । खगा बीतफलं वृक्षं भुक्त्वा चाभ्यागतो गृहम् ॥ ०२-१७
गृहीत्वा दक्षिणां विप्रास्त्यजन्ति यजमानकम् । प्राप्तविद्या गुरुं शिष्या दग्धारण्यं मृगास्तथा ॥ ०२-१८
दुराचारी दुरादृष्टिदुरावासी च दुर्जनः । यन्मैत्री कियते पुम्भिर्नरः शीघ्रं विनश्यति ॥ ०२-१९
समाने शोभते प्रीतिः राशि सेवा च शोभते । वाणिज्यं व्यवहारेषु दिव्या स्त्री शोभते गृहे ।। ०२-२०
Author | – |
Language | Marathi |
No. of Pages | 24 |
PDF Size | 1 MB |
Category | Economy |
Source/Credits | marathi-unlimited.in |
Related PDFs
Nibandh Mala For Student PDF In Hindi
Managerial Economics MCQ With Answers PDF
Sulabh Vastu Shastra PDF In Marathi
Marathi Grammer PDF In Marathi
चाणक्य नीति मराठी पुस्तक – Chanakya Niti Marathi Book PDF Free Download