भावप्रकाश निघंटु | Bhavprakash Nighantu PDF In Hindi

भावप्रकाश निघंटु – Bhavprakash Nighantu Book/Pustak PDF Free Download

पुस्तक का एक मशीनी अंश

भिषजामुपकाराय निघण्टोरुपरि कृता ।!

टिप्पणी वैद्यराजेन गंगापूर्वक विष्णुना !

अथ प्रथमं हरीतक्या उत्पत्तिनम लक्षणं गुणाश्चः ।

दक्षं प्रजापतिं स्वस्थमश्विनौ वाक्यमृचतुः ।

कुतो हरीतकी जाता तस्यास्तु काते जातयः ॥ १ ॥

रेसाः कति समाख्याताः कति चोपेरसाः स्मृताः ।

नामानि कति चोक्तानि किंवा तासां च लक्षणम् ॥ २ ॥

केच वर्णा गुणाः के च का च कुत्र प्रयुज्यते ।

केन द्रव्येण संयुक्ता कांश्च रोगान्त्र्यपोहति ॥ ३ ॥

प्रश्नमेतं यथा पृष्टं भगवन्वक्तुमर्हसि ।

अश्विनोर्वचनं श्रुत्वा दक्षो वचनमब्रवीत् ।। ४ ।।

उत्पत्तिः

पपात बिन्दुर्मेदिन्यां शक्रस्य पिवतोऽमृतम् ।

ततो दिव्या समुत्पन्ना सप्तजातिर्हरीतकी ॥ ५ ॥

नाम ।

हरीतक्यभया पथ्षा कायस्था पूतनामृता ।

हैमवत्यव्यथा चापि चेतकी श्रेयसी शिवा ॥

वयस्या विजया चापि जीवन्ती रोहिणीति च ॥ ६ ॥

जातयः।

विजया रोहिणी चैव पूतना चामृतामया ।

जीवन्ती चेतकी चेति पथ्यायाः सप्त जातयः ॥ ७ ॥

लक्षणम् ।

अलावृवृत्ता विजया वृत्ता सा रोहिणी स्मृता ।

पूतनास्थिमती सूक्ष्मा कथिता मांसलामृता ॥ ८ ॥

पंचरेखाभया प्रोक्ता जीवन्ती स्वर्णवर्णिनी ।

त्रिरेखा चेतकी ज्ञेया सप्तानामियमाकृतिः ॥ ९ ॥

गुणाः ।

विजया सर्वरोगेषु रोहिणी व्रणरोपणी ।

अले पूतना योन्या शोधनायेंऽमृता हिता ॥ १० ॥

अक्षिरोगेऽभया शस्ता जीवन्ती सर्वरोगहत् ।

चूर्णायें चेतकी शस्ता यथायुक्तं प्रयोजयेत् ॥ ११ ॥

चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्णतः ।

पडंगुलायता श्वेता कृष्णा त्वेकांगुला स्मृता ॥ १२ ॥

काचिदास्वादमात्रेण काचिद् गंधेन भेदयेत् ।

काचित्स्पर्शेन दृष्ट्याय चतुर्धा भेदयेच्छिवा ।। १३ ।।

चेतकी पादपच्छायामुपसर्पति ये नराः ।

भिद्यन्ते तत्क्षणादेव पशुपक्षिमृगादयः ॥ १४ ॥

चेतकी तु धृता हस्ते यावत्तिष्ठति देहिनः ।

लेखक खेमराज श्रीकृष्णदास – Khemraj Shrikrashnadas
भाषा हिन्दी
कुल पृष्ठ 244
PDF साइज़9.54 MB
CategoryReligious

Also read: Bhavprakash Nighantu PDF In Gujarati

भावप्रकाश निघंटु – Bhavprakash Nighantu Book/Pustak PDF Free Download

Leave a Comment

Your email address will not be published. Required fields are marked *